Wednesday, October 24, 2012

संस्कृतसाहित्ये विज्ञानस्य स्थितिः



·         प्रणालीवद्धया परीक्ष्यया उपलब्धं विशिष्टं ज्ञानं एव विज्ञानम् इति।विउपसर्गपूर्वकात्ज्ञाधातोः अनट् प्रत्यये कृते सति विज्ञानम् इति रूपं सिध्यति। अद्यत्वे जगति मानवसमाजः विज्ञानवलेन सभ्यतायाः उच्चशिखरम् आरोहितः। अस्य विज्ञानस्य मूलम् एव गणितशास्त्रं वर्तते। वेदङ्गसाहित्ये इदम् एव शास्त्रं सर्वेषां मूर्द्धनि प्रतिष्ठितम् अस्ति _ तद्वद् वेदाङ्गशास्त्राणां गणितं मूर्द्धनि स्थितम्
  गणितशास्त्रम्
भारतवर्षे वैदिककालादेव गणितशास्त्रस्य परिचर्चा प्रवृत्ता आसीत्। पुरी नगरवास्तव्यः भारती तिर्थदेवस्यवैदिकगणितम्अस्मिन् क्षेत्रे अतीव गुरुत्वपूर्णं वर्तते। अस्माकं पूर्वजाः भारतीयाः संख्यायाः दशमिकमानपद्धतिः, शून्यस्य धारणा, वर्गमूलादिनिर्णयविषयेषु अधिगताः आसन्। गणितशास्त्रस्य पाटीगणितविषये भस्कराचार्यस्यलीलावतीनाम ग्रन्थः खलु मूर्द्धन्यस्थानं भजते। वीजगणिते विभिन्नानां समीकरणानां समाधानं प्राप्यते। वेदङ्गस्य शूल्वसूत्राणि एव खलु ज्यामितिशास्त्रस्य आधारभूतं वर्तते। अद्यत्वे पैथागोरससूत्रं नाम प्रसिद्धं सूत्रं तु शूल्वसूत्रान्तर्गतम् एव। इदं सूत्रं बोधायनेन प्रणीतम् अस्ति। यथा
दीर्घचतुरस्रस्याक्ष्णया रज्जुः पार्श्वमानी तिर्यग्मानी।
यत् पृथग्भूते कुरुतस्तदुभयं करोति॥
एवम् एव त्रिभूजस्य क्षेत्रफ़लनिर्णयपद्धतिः अपि आर्भट्टेन प्रतिपादिता। तद्यथा- त्रिभूजस्य फ़लशरीरं समदलकोटी भूजार्द्धसंवर्गः |
त्रिकोणमितेः ज्या (sine) तथा  कोटीज्या (co-sine) भारतीयानाम् एव अपूर्वम् अवदानम् तथैव स्थिराङ्कस्यपाइइत्यस्य मूल्यम् अपि पञ्चमख्रीष्टाव्दे एव आर्यभट्टेन एवं निरूपितम् --
 चतुरधिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणाम् अयुतद्वयविष्कम्भस्यासन्नो वृत्तपरिणाहः॥ {(१००+)+६२०००/२००००=.१४१६}
इत्थं प्रकारेण वयं पश्यामः यत् अधिकतरगणिततथ्यानाम् अभिवृद्धिः भारते एव संसाधिता अस्माकं पूर्वजैः आर्यऋषिभिः इति  

 भौतिकविज्ञानम्
वैदिकवाङ्मयाद् आरभ्य महाभारत-दर्शनादिषु वहुषु शास्त्रेषु भौतिकविज्ञानम् आलोचितम् अस्ति।
आइजक निउटनस्य गतिसूत्रं व्रह्मसूत्रग्रन्थे एवं प्रतिपादितम्व्यतिरेकानवस्थितेश्चानपेक्षत्वात् अर्थात् कश्मिन्नपि व्यतिरेके अनुपस्थिते गतिः परिवर्त्तते इति। मन्त्रद्रष्टारः आर्यऋषयः विद्वुत्संवद्धं विषयम् अपि जानान्ति स्म अगस्तसंहितानाम प्राचीनभारतीयग्रन्थे विद्वुत्कोषनिर्माणप्रक्रिया खलु वर्णिता दृश्यते अस्यां प्रकियायां एवं विध वस्तुनि यथा - मृन्मयपात्रम् ( Earthen pot)  ताम्रपट्टिका (Copper sheet) शिखीग्रीव (Copper sulpfate), काष्ठपांसुः (Saw-dust), पारदः (Mercury), दस्तालोष्ठ (Zinc), इत्यादिनि प्रयुक्तानि भवन्ति (एतत् तथ्यं सम्भाषणसन्देशात् (Oct-2003 ) गृहीतम् अस्ति)  
  तथैव वैशेषिकदर्शनस्य प्रणेता कणादः अणु-परमाणु तत्वं निरूपयति तद्यथा
सूर्यजालमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः
तस्य षष्टितमो भागः त्रसरेणुरितिस्मृतः
परमाणोः सूक्ष्म्यत्वं श्वेताश्वतर-उपनिशदि वर्णितम् "वालाग्रशतभागस्य शतधा कल्पितस्य " अयंचेतसा वेदितव्यःअर्थात् ज्ञानरूपचक्षुषा एव द्रष्टुं शक्यते अस्मिन् प्रसङ्गे महामुनेः भारद्वाजस्य योगदानंम् अपि अस्माभिः उल्लेखनीयम् तेन विरचितेयन्त्रसर्वस्वम्नाम ग्रन्थे विमानसंवद्धाः वहुविषयाः प्रकटिताः भवन्ति वेदशास्त्रं निर्मथ्य तेन प्रणीतः अयं ग्रन्थः  
रसायन विज्ञानम्
वैदिकब्राह्मणग्रन्थेषु रसायनशास्त्रस्य बीजं सन्निहितं वर्तते आचार्यः नागार्जुनःरसरत्नाकरग्रन्थं विलिख्य इदं व्यवस्थितवान् अस्य शास्त्रस्य दीर्घपरम्परा दृश्यते नागार्जुनकालात् आरब्धा इयं परम्परा वहुशताब्दीपर्यन्तं धारावाहिकरूपेण प्राचलत् परन्तु वैदेशिकशासनस्य प्रतिपत्तौ सत्यां संस्कृतभाषायां विरचिताः ग्रन्थाः अपि अनादृताः अभवन् वाग्भटरचिते रसरत्नसमुच्चये सप्तविंशतिः रसायणविदः निर्दिश्यन्ते तेषां केषाञ्चित् जनानां नामानि तथा रचितपुस्तकानि एवंविधानि  सन्ति --
) नागार्जुनः...........................रसरत्नाकरः
) वाग्भट...............................रसरत्नसमुच्चयः
) भिक्षुगोविन्दः.....................रसहृदयतन्त्रम्
) गोविन्दाचार्यः.................रससारः
) यशोधरः............................रसप्रकाशसुधाकरः
) गोपालकृष्णभट्टः ...........रसेन्द्रसारसंग्रहः  
) प्राणनाथः ..........................रस-प्रदीपः  
रसायनविज्ञाने रासायणिकप्रक्रियायाः सम्पादनार्थं रसशालायाः (laboratory) अपि निर्देशः अस्ति प्रयुज्यमानसाधानानां कानिचित् अधस्तात् प्रदीयन्ते। यथा--- स्वेदनीयन्त्रम्, पातनयन्त्रम्, दोलायन्त्रम्, नालिकायन्त्रम्, तुलायन्त्रम्, कोष्ठिकायन्त्रम्, दीपिकायन्त्रम्, जालिकायन्त्रम्, पुटकयन्त्रम्, हण्डिकायन्त्रम्, इष्टिकायन्त्रम् इत्यादिनि भारतीयरसायनविद्यायाः संरक्षणार्थम् आचार्यः प्रफुल्लचन्द्र रायः नागार्जुनप्रभृतीनां समस्तप्राचीनरसायनशास्त्राणि अधीत्य हिन्दुरसायनस्य इतिहासः नम्ना तथ्यसमृद्धं ग्रन्थम् एकं प्रणीतवान्  

ज्योतिर्विज्ञानम् 
वैदिकसाहित्ये ज्योतिर्विज्ञान विषयकं  विवरणं विक्षिप्तरूपेण उपलब्धं भवति वेदाङ्ग-पुराणादिशास्त्रेषु अपि एतद्विषयं अधिकृत्य चर्चा विहिता आर्यभट्टः, वराहमिहिरः, ब्रह्मगुप्तः, भस्कराचार्यप्रभृतयः विज्ञानिनः ज्योतिर्विज्ञानक्षेत्रे प्रभूतम् अवदानं दत्तवन्तः  
अथर्ववेदानुसारेण गर्गमुनिः प्राथम्येन आकाशमण्डलस्य  ज्योतिष्कराशेः परिगणनं करोति स्म तदीयमतेन राशिचक्रे अष्टविंशतिः भगाः वर्तन्ते परन्तु शतपथव्राह्नणे तु सप्तविंशतिः एव भगाः परिगण्यन्ते
भट्टकमलाकरः सूर्यस्य स्वरूपं निरूप्य तंतेजसां गोलकःइति आख्याति अस्य गोलकस्य रश्मिभिः एव सौरजगतः ग्रहः अपि प्रकाश्यन्ते "प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिप्रदीपिताः" अन्ये ग्रहाः इव चन्द्रमा अपि सूर्याद् एव जातः इति तथ्यं तु व्राह्मणग्रन्थे उपलभ्यते- "आदित्यात् वै चन्द्रमा जायते" इति यास्कस्य निरुक्तमतेन अपि "आदित्यः अस्य दीप्तिर्भवति"  
एवं आर्यभट्टः ग्रहणविषयं निरूपयति | वराहमिहिरस्य वृहत्संहितायां धुमकेतोः अपि विवरणं प्रदत्तम् वेदाङ्गस्य गृह्यसूत्रे सप्तर्षिमण्डलस्य ध्रुवनक्षत्रादिनां उल्लेखः वर्तते ज्योतिर्विज्ञानम् अवलम्व्य हि ज्योतिःशास्त्रं प्रचलितम्  

भू-विज्ञानम्
संस्कृतभाषायं भूगोल-खगोलादिशव्दाः प्राचीनकालादेव व्यवहृताः सन्ति भूगोलशब्देन तु पृथिव्याः गोलाकृतिः एव प्रतिपन्ना भवति आर्यभट्टः (प्रथम) पृथिव्याः गतिशीलताम् अपि निरूपयति स्म तेन प्रदिपादितं यत् अग्रे प्रचलतः नावः तटस्थम् अचलम् अपि पश्चात् धावन्तं दृश्यते-"अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यत्वत्"  पाश्चात्यविज्ञानी कोपार्निकासः प्रायः सहस्रवर्षानान्तरम् एव इदम् उद्भावितवान्। 
पृथिव्याः माध्याकर्षणशक्तेः प्रतिपादकरूपेण वयम् आइजाक निउटनस्य नामानं प्रप्नुमः परन्तु उपनिषद् काले हि अस्माकं पूर्वजाः एतद्विषये अवगताः आसन् प्रश्नोपनिषदः तृतीयप्रश्ने हि शाङ्करभाष्ये एतद् स्पष्टीभवति भास्कराचार्यस्यसिद्धान्तशिरमणिग्रन्थे अपि एवं वर्णितम् अस्ति- आकृष्टिशक्तिश्च मही तपायत् श्रीकृष्णविलाशकाव्ये पृथिव्याः स्थिति-कम्पनादिविषयः काव्यशैल्या निरूपितः

उद्भिद् विज्ञानम्
प्राचीनकालादेव भारते उद्भिद्-विज्ञानस्य चर्चा प्रवृत्ता आसीत् अथर्ववेदे, अग्निपुराणे तथा वराहमिहिरस्य वृहत्संहितायां एतद् विज्ञानं सविस्तरं प्रस्तुतम्  
महर्षिः पराशरः वृक्षायुर्वेदः नाम ग्रन्थं विलिख्य उद्भिद्-विज्ञानविवेचनं समारभते स्म चरक-शुश्रुतप्रभृतीनां संहिताग्रन्थेषु अपि एतद्विषयकं विवरणम् उपलभ्यते पराशरः तस्य ग्रन्थे उद्भिदः एवं वर्गीकरणं विधधाति -- ) समीगणीयम् (Leguminoecac) ) पिपीलिकागणीयम् (Rutaceac) ) स्वस्तिक गणीयम् (Cruciferac) ) कुर्चगणीयम् (compositae) अद्यतने काले गवेषणकक्षायाम् अणुविक्षणादीनि यन्त्रानि खलु उपयुज्यन्ते परन्तु एवंविधयन्त्रं विना हि सः शस्यकोषं (plant cell) विस्तृतरूपेण निरीक्षितवान् पश्चाद् एव रबार्ट हुकः तम् अनुसरति स्म संस्कृतभाषायां वृक्षः पादपः इति अभिधीयते पादैः पिवति इति विग्रहे अयं शव्दः  सिद्ध्यति वृहत्संहितायां वृक्षाणां संभाव्यविभिन्नरोगाः एवम् उल्लिखिताः -- ) पण्डुपत्रता (chlorosis of leaves) ) प्रवाल अवृद्धिः (falling of buds) ) शाखाशोषः (drying of branches) ) रसस्रुतिः (Exudation of sap)

जीव-विज्ञानम् 
भारतीयाः आर्यऋषयः जीव-विज्ञानविषये अपि अग्रगानिनः आसन् तेषाम् अध्ययनपुष्टं ज्ञानं वेद-उपनिषत्सु तथा दर्शन-पुराणादिग्रन्थेषु उपनिवद्धं वर्तते एतदनुसारं प्राणिनः त्रिधा विभक्ताः ) जलचराः ) स्थलचराः ) नभश्चराः भागवतपुराणे तु जन्मानुसारं ते चतुर्धा विभक्ताः दृश्यन्ते - ) जरायुजः ) अण्डजः ) स्वेदजः ) उद्भिज्जः  
चरकसंहितायाम् अपि एतदेव वर्गीकरणं वयं प्राप्नुमः हस्तिविषये, अश्वविषये अनेके स्वतन्त्रग्रन्थाः रचिताः वर्तन्ते अथर्ववेदे सर्पाणां त्रयोदशभेदाः वर्णिताः तथाहि पुराणग्रन्थेषु पशुचिकित्सायाः निर्देशनम् अस्ति शालिहोत्रसंहिता अश्वचिकित्सासंवद्धः एकः उत्कृष्टः ग्रन्थः
पतञ्जलेः महाभाष्ये, सुश्रुत-संहितायां तथा दर्शनस्य प्रशस्तपादभाष्ये इत्यादौ प्राणिविज्ञानविषयकानां पर्याप्ततथ्यानां विवरणम् उपलब्धं भवति
चिकित्सा-विज्ञानम्
अस्माकं शरीरं व्याधिग्रस्तं कलेवरम् इति सर्वे जानान्ति एव एवंविधेन शरीरेण तावत् धर्मादि-पुरुसार्थसाधनम् अपि संभवति अतः रोगप्रशमनार्थं स्वास्थ्यस्य सुरक्षाहेतोः मानवाः आदिकालादेव यत्नपराः भवन्ति  
भारतीयचिकित्साविज्ञानस्य मूलम् आयुर्वेदशास्त्रम् इदं शास्त्रं ऋग्वेदस्य उपवेदत्वेन परिगणितः आयुर्वेदस्य चिकित्सापद्धतिः वैदिककालादेव प्राचलत्  
इदानीम् उपलब्धेषु आयुर्वेदग्रन्थेषुचरकसंहिताप्राचीनतमः सुस्रुत-संहिताआयुर्वेदस्य अपरः महत्त्वपूर्णः ग्रन्थः काश्यपसंहिता, हारितसंहिता, अष्टाङ्गहृदयः इत्यादयः आयुर्वेदिकग्रन्थाः परवर्त्तिकाले विरचिताः धन्वन्तरी, आत्रेयपुनर्वसु, अग्निवेशः, भृगुः, वशिष्ठः, वामदेवः, अत्रिः, च्ववनः - एते प्राचीन-आयुर्वेदज्ञानां केचन आसन्  
आयुर्वेदस्य चिकित्सापद्धतिः अष्टधा विभक्ता यथा -- 
) शल्य-........ शल्यक्रियामूलचिकित्सा (Surgery)
) शालाक्य-- ....ग्रीवामूलात् उर्ध्वभागस्य चिकित्सा (Otology, Dentistry etc.)  
) काय-चिकित्सा-...... औषधेन रोगनिवारणम् (Medicine)
) अगदतन्त्र-........... विषक्रियायाः चिकित्सा (Toxicology)
) भूतविद्या ..............भौतिकं शान्तिकर्म (Psychiatry)
) कौमारभृत्य ..........शिशुचिकित्सा तथा प्रसूतिः (Paediatrics)
) रसायन तन्त्र ......धातुविषयकं पुष्टिसाधनम् (Rejuvenation)
) वाजीकरण ........ वलवीर्यमूलक चिकित्सा (Aphrodisiac)
आधुनिकस्य वैद्यशास्त्रस्य सर्वे मुख्याः विभागाः अत्र समाविष्टाः सन्ति  
चिकित्साविज्ञाने साम्प्रतं प्रयुक्तानि विभिन्नयन्त्राणि आयुर्वेदीयचिकित्सायाम् अपि प्रयुज्यन्ते साधारणतः जीवजन्तुनां पक्षिणां वा मुखावयवसदृशानि एतानि यन्त्राणि सुश्रुतेन स्वस्तिकादिविभिन्नभागेषु विभक्तानि दृश्यन्ते तेनसुनम्य शस्त्रचिकित्सायाः’(Plastic surgery) अपि विवरणं प्रदत्तम् अत्र विश्लेषितायाः नासिकायाः प्रतिष्ठापनविषये सन्धानं वर्णितम् अस्ति विश्लेषितायास्त्वथ नासिकायाः वक्ष्यामि सन्धानविधिं यथावत्
एवं अस्माकं पूर्वजानां अध्ययनेन विज्ञानस्य विभिन्नभागेषु निष्णातानां तेषां साप्रतिकज्ञानेन साकं संयोगः अस्माकं कृते महोत्कर्षाय कल्पते
समाप्तौ प्रसिद्धस्य विज्ञानिनः आइन्ष्टाइनस्य तथ्यमिदम् उद्धर्तुं कामये "Come along, see my literary which tresures classics from sanskrit, the Gita and other tresures on Hindu philosophy. They are the main sources of my inspiration and guidelines for the purpose of scientific investigations and formulations of theories "
·          
Top of Form

No comments:

Post a Comment